Konstitucija: Sanskrito (SA)
Užupio Respublikos Konstitucijos tekstas: Sanskrito.
Credits: Užupio fotoarchyvas
परतटगणतन्त्रम्
पुरुषो विल्नेलेनश्याःसमीपे प्रतिवस्तुमर्हति विल्नेलेनदी च पुरुषस्य समीपे सर्तुमर्हति ॥१॥
पुरुष उष्णोदक हिमर्तावुपतापमृच्छदिशार्हति ॥२॥
पुरुषो मर्तुमर्हति किन्तु नास्तीदं कृत्यं पालनीयम् ॥३॥
पुरुषो भ्रान्ति गन्तुमर्हति ॥४॥
पुरुषोऽनन्यो भवितुमर्हति ॥५॥
पुरुषः कामयितुमर्हति ॥६॥
पुरुषोऽकान्तो भवितुमर्हति किञ्चनावश्यकमिदम् ॥७॥
पुरुषोऽविश्रुतोऽज्ञातश्च भवितुमर्हति ॥८॥
पुरुषोऽलसो भवितुं न किंचिच्च कर्तुमर्हति ॥९॥
पुरुषो मार्जारं प्रति स्नेह कर्तुमर्हति तथा तं प्रतिपालयितुं चार्हति ॥१०॥
पुरुषः श्वानं रक्षितुमर्हत्येकतरस्य जीवितपर्यन्तम् ॥११॥
श्वा श्वा भवितुमर्हति ॥१२॥
स्वामिनं प्रति मार्जारस्य प्रेमप्रदर्शनं नावश्यकं किन्तु दुःखकाले तेनास्य साहाय्यं कर्तव्यमेव ॥१३॥
पुरुषः काले काले ऽविदद्धान्भवितुमर्हति स्वकार्यविषये ॥१४॥
पुरुषः संदिग्धो भवितुमर्हति किन्तु नास्तीदमस्य कृत्यमावश्यकम् ॥१५॥
पुरुषः सुखी भवितुमर्हति ॥१६॥
पुरुषोऽसुखी भवितुमर्हति ॥१७॥
पुरुषो मौनं समाचरितुमर्हति ॥१८॥
पुरुषो विश्वासं कर्तुमर्हति ॥१९॥
पुरुषो हिंसितुं नार्हति ॥२०॥
पुरुषः स्वमहत्त्वं स्वक्षुद्रत्वं च प्रत्यवबोद्धुमर्हति ॥२१॥
पुरुषः शाश्वतम्प्रति व्यवसायं कर्तुं नार्हति ॥२२॥
पुरुषोऽवगन्तुमर्हति ॥२३॥
पुरुषो न किंशिदवगन्तुमर्हति ॥२४॥
पुरुषो यद्राष्ट्री भवितुमर्हति ॥२५॥
पुरुषो स्वजन्मदिनमहोत्सवं कर्तुमकर्तुं वार्हति ॥२६॥
पुरुषेण स्वनाम स्मर्तव्यमेव ॥२७॥
पुरुषः स्वकीयं सत्त्वं विभक्तुमर्हति ॥२८॥
पुरुषो परकीयं सत्त्वं विभक्तुं नार्हति ॥२९॥
पुरुषो भातृभक्षुमातृपितृवान् भवितुमर्हति ॥३०॥
पुरुषः स्वतन्त्रो भवितुमर्हति ॥३१॥
पुरुषस्य स्वातन्त्र्यरक्षणं तस्य दायित्वमस्ति ॥३२॥
पुरुषो रोदितुमर्हति ॥३३॥
पुरुषोऽनवगतो भवितुमर्हति ॥३४॥
पुरुषोऽन्यमपराधभाजं कर्तुं नार्हति ॥३५॥
पुरुषः विशेषी भवितुमर्हति ॥३६॥
पुरुषः न किंचिदर्हितुमर्हति ॥३७॥
पुरुषो विगतभयो भवितुमर्हति ॥३८॥
मा जेषीः ॥३९॥
प्रतियुद्ध्मा कार्षीः ॥४०॥
आत्मसमर्पणं मा कार्षीः ॥४१॥
ॐ तत्सत् ॐ